मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् ७

संहिता

अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नाम् ।
तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥

पदपाठः

अ॒ग्निम् । वः॒ । पू॒र्व्यम् । हु॒वे॒ । होता॑रम् । च॒र्ष॒णी॒नाम् ।
तम् । अ॒या । वा॒चा । गृ॒णे॒ । तम् । ऊं॒ इति॑ । वः॒ । स्तु॒षे॒ ॥

सायणभाष्यम्

चर्षणीनां मनुष्याणां होतारं होमनिष्पादकं पुर्व्यं पुरातनं वः यष्टृत्वेन युष्मत्संबंधिनमग्निं हुवे आह्वयामि । आहूयच तमग्निं अया अनया सूक्तरूप- या वाचा गिरा गृणे शंसामि । किञ्ज वोयुष्मदर्थं तमु तमेवाग्निं स्तुषे स्तौमि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०