मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् ११

संहिता

अग्ने॒ तव॒ त्ये अ॑ज॒रेन्धा॑नासो बृ॒हद्भाः ।
अश्वा॑ इव॒ वृष॑णस्तविषी॒यवः॑ ॥

पदपाठः

अग्ने॑ । तव॑ । त्ये । अ॒ज॒र॒ । इन्धा॑नासः । बृ॒हत् । भाः ।
अश्वाः॑ऽइव । वृष॑णः । त॒वि॒षी॒ऽयवः॑ ॥

सायणभाष्यम्

अजर जरारहित हे अग्ने इन्धानासइन्धाना दीप्यमानाबृहत् बृहन्तोमहान्तः त्ये ते सर्वगतास्तव त्वदीयाभाः भासोरश्मयोवृषणः कामानांवर्षितारः सन्तः तविषीयवः बलमाचरन्तोभवन्ति । तत्रदृष्टान्तः-अश्वाइव यथा वृषणः रेतसःसेक्तारोश्वा बलमाचरन्तोभवन्ति तद्वत् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११