मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २५

संहिता

अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नाम् ।
विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥

पदपाठः

अति॑थिम् । मानु॑षाणाम् । सू॒नुम् । वन॒स्पती॑नाम् ।
विप्राः॑ । अ॒ग्निम् । अव॑से । प्र॒त्नम् । ई॒ळ॒ते॒ ॥

सायणभाष्यम्

विप्रामेधाविनोयजमानाः मानुषाणां मनुष्याणां अतिथिं अतिथिवत्पूज्यं वनस्पतीनां सूनुं वनस्पतिरूपाभिर्वारणीभिः जायमानत्वेन तेषां सूनुं प्रत्नं पुरातनमेवंविधमग्निं अवसे कर्मरक्षणाय ईळते स्तुतिभिः स्तुवन्ति ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३