मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् २०

संहिता

अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ ।
घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥

पदपाठः

अगो॑ऽरुधाय । गो॒ऽइषे॑ । द्यु॒क्षाय॑ । दस्म्य॑म् । वचः॑ ।
घृ॒तात् । स्वादी॑यः । मधु॑नः । च॒ । वो॒च॒त॒ ॥

सायणभाष्यम्

हे ऋत्विजः अगोरुधाय गाःस्तुतीरुणद्धीति गोरुधः नगोरुध अगोरुधःतान् अविनाशयति आदरेण श्रृणोतीत्यर्थःतादृशाय अतएव गविषे स्तोत्राणी- च्छते द्युक्षाय दीप्यमानायेन्द्राय दस्म्यं दर्शनीयं घृतात्स्वादुतराद्वाज्यान्मधुनश्च स्वादीयः अतिशयेन स्वादुभूतं वचः स्तोत्ररूपं वाक्यं वोचत ब्रूत ऋत्विग्भ्यः कृतंकर्म यजमानोपि कृतवान् भवतीति यदिदमिन्द्रविषयंवचः घृतान्मधुनुश्च स्वादुतरं भवत्वित्याशास्ते । तदाहभगवानाश्वलायनः-व- चएवमइदं घृताच्चमधुनश्चस्वादीयोस्तिप्रीतिःस्वादीयोस्त्वित्येवतदाहेति ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८