मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् ७

संहिता

अधि॒ या बृ॑ह॒तो दि॒वो॒३॒॑ऽभि यू॒थेव॒ पश्य॑तः ।
ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता ॥

पदपाठः

अधि॑ । या । बृ॒ह॒तः । दि॒वः । अ॒भि । यू॒थाऽइ॑व । पश्य॑तः ।
ऋ॒तऽवा॑ना । स॒म्ऽराजा॑ । नम॑से । हि॒ता ॥

सायणभाष्यम्

या यौ मित्रावरुणौ बृहता दिवोद्योतमानान् देवानधिपश्यतः । तत्रदृष्टान्तः-यूथेव यथा वृषभः गोयूथानिरन्तुमभि अभिमुखं पश्यति तद्वदेतौ स्ववी- र्येणासुरान् हत्वा देवान्मोदयितुं पश्यतइत्यर्थः । कीदृशौ ऋतावाना सत्यवन्तौ सम्राजा सम्राजौ सम्यग्दीप्यमानौ नमसे हविषे हिता हितौ प्रियौ पश्यतइति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२