मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् ९

संहिता

अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा ।
नि चि॑न्मि॒षन्ता॑ निचि॒रा नि चि॑क्यतुः ॥

पदपाठः

अ॒क्ष्णः । चि॒त् । गा॒तु॒वित्ऽत॑रा । अ॒नु॒ल्ब॒णेन॑ । चक्ष॑सा ।
नि । चि॒त् । मि॒षन्ता॑ । नि॒ऽचि॒रा । नि । चि॒क्य॒तुः॒ ॥

सायणभाष्यम्

अक्ष्णश्चित् चक्षुषोपि पूर्वं गातुवित्तरौ अतिशयेन मार्गवेत्तारौ यद्वा गातुवित्तरौ गातु गमनशीलं प्राणिजातं चक्षुषोपि पूर्वं वेत्तारौ मित्रावरुणौ कीदृशौ निमिषन्ता निमिषन्तौ सर्वमुन्मेषयन्तौ स्वस्वकर्मणि निचिरा नितरां चिरंतनौ तौ अनुल्बणेन उल्ब्रणमिति दुःसहमग्नेस्तेजः तद्वत् दुःसहेन चक्षसाहोरात्रयोर्व्याप्तेन तेजसैव निचिक्यतुः पूजितौ बभूवतुः । चिदवधारणे ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२