अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे ।
श्रु॒धि स्व॑यावन्त्सिन्धो पू॒र्वचि॑त्तये ॥
अघ्न॑ते । विष्ण॑वे । व॒यम् । अरि॑ष्यन्तः । सु॒ऽदान॑वे ।
श्रु॒धि । स्व॒ऽया॒व॒न् । सि॒न्धो॒ इति॑ । पू॒र्वऽचि॑त्तये ॥
पूर्वार्धर्चः परोक्षकृतः अरिष्यन्तःपालनवत्वात् केनाप्यबाधितावयं अघ्नते स्तोतृणां यष्टृणा चाहिन् काय सुदानवे शोभनदानाय विष्णवे स्वमहत्त्वेन सर्वव्यापकाय एतन्नामकाय देवाय स्तुतिं कुमः । अथ प्रत्यक्षः हे स्वयावन् स्वयमेवासहायः सन् दिवि संग्रामेवा यातीति स्वयावन् सिन्धो स्तोतृन् प्रति धनानां स्यन्दनशील विष्णो पूर्वचित्तये न्वित्तिः कर्म मन्त्रान्तरेपि तथाश्रवणात् । साचित्तिभिर्निहिचकारमर्त्यमिति । पूर्वं प्रारब्धकर्मणे यज- मानाय तदर्थं श्रुधि अस्माभिः क्रियमाणां स्तुतिं त्वं शृणु ॥ १२ ॥