मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् १६

संहिता

अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पति॑ः ।
तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥

पदपाठः

अ॒यम् । एकः॑ । इ॒त्था । पु॒रु । उ॒रु । च॒ष्टे॒ । वि । वि॒श्पतिः॑ ।
तस्य॑ । व्र॒तानि॑ । अनु॑ । वः॒ । च॒रा॒म॒सि॒ ॥

सायणभाष्यम्

मित्रस्य कर्माण्याह विश्पतिः विशां पालयिता अनयोर्मित्रावरुणयोरेकः अयं मित्रः पुरु पुरूणि बहूनिच उरु उरूणिच द्रव्याणि इत्था इत्थं विचष्टे स्वतेजसा पश्यति तस्य मित्रस्य व्रतानि कर्माणि वोयुष्मदर्थं अनुचरामसि अनुचरामः कुर्मइत्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४