मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् १७

संहिता

अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम ।
मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ॥

पदपाठः

अनु॑ । पूर्वा॑णि । ओ॒क्या॑ । सा॒म्ऽरा॒ज्यस्य॑ । स॒श्चि॒म॒ ।
मि॒त्रस्य॑ । व्र॒ता । वरु॑णस्य । दी॒र्घ॒ऽश्रुत् ॥

सायणभाष्यम्

साम्राज्यस्य सम्राजोभावः साम्राज्यं साम्राज्यमस्यास्तीति साम्राज्यः अर्शआदिभ्यइत्यच् प्रत्ययः साम्राज्यवतोवरुणस्य पूर्वाणि पुरातनानि ओक्या ओकोगृहं तस्मै हितानि कर्माणि वयं सश्चिम । सश्चतिर्गतिकर्मा लिटिरूपं द्विर्वचनस्य छन्दसिविकल्पितत्वादत्रद्विर्वचनाभावः । तदेवाह मित्रस्य व्रता व्रतानि कर्माणिच दीर्घश्रुत् सुपांसुलुगिति षष्ठ्यालुक् दीर्घश्रुतः अतिशयेन प्रसिद्धस्य वर्षणस्य व्रतानिवा सश्चिमेति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४