मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् ३

संहिता

ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू ।
पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः ॥

पदपाठः

ता । वा॒म् । अ॒द्य । ह॒वा॒म॒हे॒ । ह॒व्येभिः॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
पू॒र्वीः । इ॒षः । इ॒षय॑न्तौ । अति॑ । क्ष॒पः ॥

सायणभाष्यम्

हे वाजिनीवसू अन्नयुक्तधनवन्तावश्विनौ पूर्वीःबहूनि इषोन्नानि इषयन्तौ इष इच्छायां इच्छन्तौ ता तौ प्रसिद्धौ वां युवां अद्यास्मिन्यागदिने अति- क्षपः क्षपायाअतिक्रमे उषःकाले इत्यर्थः तस्मिन्नुषःकाले हव्येभिर्हविर्लक्षणैरन्नैः सह वयं हवामहे आह्वयामः आश्विनशस्त्रस्य तत्र शस्यमानत्वादु- षःकालएवाह यागइत्यथः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६