मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् ८

संहिता

आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिन्द्र॑नासत्या गतम् ।
दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥

पदपाठः

आ । मे॒ । अ॒स्य । प्र॒ती॒व्य॑म् । इन्द्र॑नासत्या । ग॒त॒म् ।
दे॒वा । दे॒वेभिः॑ । अ॒द्य । स॒चनः॑ऽतमा ॥

सायणभाष्यम्

हे इन्द्रनासत्या इन्द्राश्विनौ देवा देवौ सचनस्तमा षचसमवाये कृत्यल्युटइति कर्मणि ल्युट् अतिशयेन सर्वैः समवेतव्यौ सेव्यमानौ युवां प्रतीव्यं वी- गत्यादिषु अधिकरणे औणादिकःक्विप् प्रतिशब्दस्य वीप्सार्थोस्ति पुनःपुनर्वियन्ति भक्षयन्ति हवींषि देवाअत्रेति प्रतीव्योयज्ञः तं अस्य पुरोवर्तिनं मे ममसंबन्धिनं यज्ञं अद्यास्मिन्दिने देवेभिर्देवैः सार्धमागतमागच्छतम् । यद्वा मे ममास्यक्रियमाणस्य स्तोत्रस्य प्रतीव्यं प्रतिगतं यथाभवति तथा आभिमुख्येनायातम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७