मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् २०

संहिता

यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो ।
आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥

पदपाठः

यु॒क्ष्व । हि । त्वम् । र॒थ॒ऽसहा॑ । यु॒वस्व॑ । पोष्या॑ । व॒सो॒ इति॑ ।
आत् । नः॒ । वा॒यो॒ इति॑ । मधु॑ । पि॒ब॒ । अ॒स्माक॑म् । सव॑ना । आ । ग॒हि॒ ॥

सायणभाष्यम्

एतदाद्यावायव्यः हे वायो रथसहा रथसहौ रथवहनसमर्थावश्वौ हिरवधारणे त्वमेव युक्ष्व संयोजय । हे वसो वासयितः शत्रूणां पोष्या पोष्यौ कंठे- षु करतलास्फालनैराश्वास्य पोषणीयौ तावश्वौ युवस्व संग्रामेषु शत्रुवधार्थं मिश्रय । यद्वा अस्मद्यज्ञेषु संमिश्रय ताभ्यां युक्तः सन् यज्ञं प्रत्यागच्छेत्य- र्थः । हे वायो आदनन्तरं नोस्मदीयं मधु मदकरं सोमं त्वं पिब अतएव अस्माकं यज्ञेषु सवना त्रिषु सवनेषु आगहि सोमपानार्थमागच्छ ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९