मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् २२

संहिता

त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे ।
सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः ॥

पदपाठः

त्वष्टुः॑ । जामा॑तरम् । व॒यम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ।
सु॒तऽव॑न्तः । वा॒युम् । द्यु॒म्ना । जना॑सः ॥

सायणभाष्यम्

इमे जनासोजनावयं त्वष्टुर्ब्रह्मणोजामातरं ईशानं सर्वस्येश्वरमेतादृशं वायुं सुतवंतोभिषुतसोमाः सयः धनं ईमहे याचामहे तेनदत्तेन वयं द्युम्रा धन- वन्तः स्याम इतिशेषः ॥ २२ ॥ वायव्यतृचे वायोयाहिशिवादिवइत्यादिके द्वे ऋचौ द्वितीयातृतीये सूत्रितच्च-वायोयाहिशिवादिवइतिद्वेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०