मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् २३

संहिता

वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म् ।
वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥

पदपाठः

वायो॒ इति॑ । या॒हि । शि॒व॒ । आ । दि॒वः । वह॑स्व । सु । सु॒ऽअश्व्य॑म् ।
वह॑स्व । म॒हः । पृ॒थु॒ऽपक्ष॑सा । रथे॑ ॥

सायणभाष्यम्

हे वायो दिवोद्युलोकस्य शिव सुपां सुलुगिति द्वितीयायालुक् शिवं कल्याणमायाहि आप्रापय सर्वज्योतिषां त्वदाधारत्वात् तेषामाधारोभुत्वा द्यु- लोके तानि स्थापयेति प्रार्थयते । ततस्त्वं स्वश्व्यं अश्वानां संघोश्व्यः शोभनाश्वसंघं रथं सु सुष्ठु वहस्व सर्वतोदिक्षु प्रापय । इदानीं तेभ्योपि समर्था- वश्वावावह महोमहान् त्वं पृथुपक्षसा पृथुपार्श्वद्वययुक्तावश्वौ रथे स्वकीये वहस्व शत्रुहननार्थं संयोजय ॥ २३ ॥ वायव्ये पशौ पुरोडाशहविषोस्त्वांहिसुप्सरस्तमं इति द्वे अनुवाक्ये सूत्रितच्च-त्वांहिसुप्सरस्तममितिद्वे कुविदंगनमसायेवृधासइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०