मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् २४

संहिता

त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ ।
ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥

पदपाठः

त्वाम् । हि । सु॒प्सरः॑ऽतमम् । नृ॒ऽसद॑नेषु । हू॒महे॑ ।
ग्रावा॑णम् । न । अश्व॑ऽपृष्ठम् । मं॒हना॑ ॥

सायणभाष्यम्

हे वायो सुप्सरस्तमं सुप्सइति रूपनाम रोमत्वर्थीयः अतिशयेन शोभनरूपवन्तं मंहना स्वकीयेन महत्त्वेन अश्वपृष्ठं सर्वतोव्याप्तपृष्ठं पृष्ठशब्दः सर्वांगं लक्षयति व्याप्तकृस्नांगमित्यर्थः त्वां हिरवधारणे त्वामेव नृषदनेषु नृसदनेषु नरः अध्वरस्यनेतारः ऋत्विजोऽत्रसीदन्तीतिनृषदनायज्ञाः तेषु हूमहे वयमाह्वयामः । कथमिव ग्रावाणं न यथा सोमाभिषवार्थं ग्रावाणं स्तुतिभिराह्वयन्ति तद्वत्त्वां स्तुतिभिराह्वयामः ॥ २४ ॥ शुनासीरीये सत्वंनोदेवेत्येषा वायोरनुवाक्या सूत्रितच्च-सत्वंनोदेवमनसेशानायप्रहुतिंयस्तआनडिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०