मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् १

संहिता

अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे ।
ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥

पदपाठः

अ॒ग्निः । उ॒क्थे । पु॒रःऽहि॑तः । ग्रावा॑णः । ब॒र्हिः । अ॒ध्व॒रे ।
ऋ॒चा । या॒मि॒ । म॒रुतः॑ । ब्रह्म॑णः । पति॑म् । दे॒वान् । अवः॑ । वरे॑ण्यम् ॥

सायणभाष्यम्

मनुः प्रार्थयते उक्थे स्तोत्रशस्त्रात्मके अध्वरे हिंसारहितेस्मिन् यज्ञे अग्निः पुरोहितः यज्ञार्थं पुरतउत्तरवेद्यां ऋत्विग्भिः निहितोभूत् तथा ग्रावाणश्च सोमाभिषवार्थं पुरतोनिहिताः बर्हिश्च पुरतोनिहितमासादितं एवं सामग्र्यां सत्यां मरुतः एकोनपच्चाशन्मरुद्गणान् ब्रह्मणस्पतिः स्तोत्रस्य पालयि- तारमेतन्नामकं देवं देवानिन्द्रादींश्च एतान् सर्वान् देवान् वरेण्यं वरणीयं भजनीयं अवोरक्षणं ऋचासूक्तरूपया स्तुत्या यामि मनुरहं याचामि । याचतेर्लटिरूपम् वर्णलोपश्छान्दसः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१