मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् ५

संहिता

आ नो॑ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे॑ स॒जोष॑सः ।
ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥

पदपाठः

आ । नः॒ । अ॒द्य । सऽम॑नसः । गन्त॑ । विश्वे॑ । स॒ऽजोष॑सः ।
ऋ॒चा । गि॒रा । मरु॑तः । देवि॑ । अदि॑ते । सद॑ने । पस्त्ये॑ । म॒हि॒ ॥

सायणभाष्यम्

समनसः सर्वेषुस्तोत्रेषु समानमनस्काः विश्वे सर्वेदेवाः यूयं सजोषसः परस्परं संगताः सन्तः गिरा शुश्रूषुतया प्राप्तव्ययेत्यर्थः तया ऋचासह अद्या- स्मिन्यागदिने नोयष्टृनस्मानागन्त आगच्छत । अनन्तरं हे मरुतः देवि द्योतमाने महि महति देवानां मातृत्वात् महत्वयुक्ते हे अदिते अदीने एतन्ना- मिके देवि सदने स्थाने पस्त्येस्मदीयेगृहे स्तोतव्यतया उपविशत । मरुतइत्यादेर्वाक्यभेदादनिघातः उत्तरत्र पूर्वस्यामन्त्रितस्याविद्यमानवत्वेन वा- क्यादित्वादनिघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१