मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् ६

संहिता

अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ ।
आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदन्तु नः ॥

पदपाठः

अ॒भि । प्रि॒या । म॒रु॒तः॒ । या । वः॒ । अश्व्या॑ । ह॒व्या । मि॒त्र॒ । प्र॒ऽया॒थन॑ ।
आ । ब॒र्हिः । इन्द्रः॑ । वरु॑णः । तु॒राः । नरः॑ । आ॒दि॒त्यासः॑ । स॒द॒न्तु॒ । नः॒ ॥

सायणभाष्यम्

हे मरुतःप्रिया प्रियाणि या यानि वोयुष्माकमश्व्या अश्व्यानि प्रियान् अश्वसंघान् अभिप्रयाथन अस्मद्यज्ञंप्रति प्रापयत यूयमश्वैर्युक्ताः सन्तआगच्छ- तेत्यर्थः । अथ हे मित्र मित्रशब्देनान्येवरुणादयोप्युच्यन्ते हे मित्रादयोदेवाः हव्या हव्यानि हवनयोग्यानि हवींषि स्वीकर्तुमागच्छतेत्यर्थः । स्तूय- माना आगच्छत । प्रपूर्वाद्यातेर्लोटि तप्तनप्तनथनाश्चेतिथनादेशः । आगत्यच इन्द्रोवरुणः इन्द्रावरुणौ तुराः संग्रामे शत्रुवधार्थं त्वरमाणाः नरोनेतार- आदित्यासःअदितेः पुत्रामरुदादयोदेवाश्च नोस्मदीये यज्ञे बर्हिः बर्हिषि आसादिते आसदन्तु आसीदन्तु प्रविशन्तु । सदेःसीदादेशाभावश्छान्दसः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२