मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् ९

संहिता

वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत ।
न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥

पदपाठः

वि । नः॒ । दे॒वा॒सः॒ । अ॒द्रु॒हः॒ । अच्छि॑द्रम् । शर्म॑ । य॒च्छ॒त॒ ।
न । यत् । दू॒रात् । व॒स॒वः॒ । नु । चि॒त् । अन्ति॑तः । वरू॑थम् । आ॒ऽद॒धर्ष॑ति ॥

सायणभाष्यम्

हे अद्रुहः स्तोतृणामद्रोग्धारः यद्वा द्रुहेरौणादिकः कर्मणिक्विप् शत्रुभिरहिंस्याः हे देवासो मरुदादयोदेवाः अच्छिद्रं बाधकरहितं साधियोवा शर्म शृ- णाति दुःखादिकमिति शर्मगृहं तत् नोस्मभ्यं वियच्छत । हे वसवः शत्रूणां वासयितारोमरुदादयः दूराद्दूरदेशात् अन्तितः अन्तिकदेशाद्वा कश्चिदा- गत्य नूचित्कदाचिदपि वरूथं वरणीथं वरणीयं संभजनीयं यद्गृहं नादधर्षति आधर्षणं हिंसनं नकरेति तद्गृहं प्रयच्छतेति समन्वयः । धृषप्रसहने- इत्यस्य विभाषितणिच् त्वात् यदा णिच्नास्ति तदा रूपम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२