मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् १०

संहिता

अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् ।
प्र ण॒ः पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥

पदपाठः

अस्ति॑ । हि । वः॒ । स॒ऽजा॒त्य॑म् । रि॒शा॒द॒सः॒ । देवा॑सः । अस्ति॑ । आप्य॑म् ।
प्र । नः॒ । पूर्व॑स्मै । सु॒वि॒ताय॑ । वो॒च॒त॒ । म॒क्षु । सु॒म्नाय॑ । नव्य॑से ॥

सायणभाष्यम्

हे रिशादसो रिशतां हिंसतामसितारो देवासोदेवा द्योतमानाः मरुदादयः वो युष्माकं सजात्यमस्ति परस्परं समानजातिभावोस्तिखलु । किच्च आप्यं आपिर्बन्धुः तस्यभावआप्यं स्तोतृषु स्तुत्यलक्षणसंबन्धात् वैवस्वतेन मनुना मया स्तोत्रा सह युष्माकं बन्धुभावोस्ति खलु । ततःपूर्वस्मै प्रथमभावि- ने सुविताय सुष्ठु ईयते सर्वैरागम्यतइति सुवितोभ्युदयः तस्मै नव्यसे नवीयसे नवतराय सुम्रायच उभयं मक्षु शीघ्रं नोस्माकं प्रवोचत प्रकर्षेण ब्रूत अभ्युदयधनानि प्रयच्छतेत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२