मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् १८

संहिता

अज्रे॑ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम् ।
ए॒षा चि॑दस्माद॒शनि॑ः प॒रो नु सास्रे॑धन्ती॒ वि न॑श्यतु ॥

पदपाठः

अज्रे॑ । चि॒त् । अ॒स्मै॒ । कृ॒णु॒थ॒ । नि॒ऽअञ्च॑नम् । दुः॒ऽगे । चि॒त् । आ । सु॒ऽस॒र॒णम् ।
ए॒षा । चि॒त् । अ॒स्मा॒त् । अ॒शनिः॑ । प॒रः । नु । सा । अस्रे॑धन्ती । वि । न॒श्य॒तु॒ ॥

सायणभाष्यम्

हे देवाः अज्रेचित् ज्रिअभिभवे परैरनभिभवनीयेपि परपुरे न्यच्चनं नितरां गमनमस्मै मनवे कृणुथ यूयं कुरुत । यद्वा ज्रे ऋजुगमने प्रस्थे गमनं कुरुत तथा दुर्गेचित् अगन्तव्येपि स्थले सुसरणं सुगतौ शोभनगमनमासमन्तात्कुरुत एवंसति सैषाशनिः शत्रूणां तदेतदायुधं अस्मात्सर्वतोगन्तुर्मनोर्नुक्षिप्रं परः परस्ताद्धवेत् पश्चात्साशनिः अस्रेधन्ती कांश्चिदप्यहिंसती विनश्यतु विनष्टाभवेत् ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४