मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् १९

संहिता

यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध ।
यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः ॥

पदपाठः

यत् । अ॒द्य । सूर्यः॑ । उ॒त्ऽय॒ति । प्रिय॑ऽक्षत्राः । ऋ॒तम् । द॒ध ।
यत् । नि॒ऽम्रुचि॑ । प्र॒ऽबुधि॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यत् । वा॒ । म॒ध्यन्दि॑ने । दि॒वः ॥

सायणभाष्यम्

हे प्रियक्षत्राः प्रीणयितृबलाः देवाः सूर्ये सर्वस्य स्वस्वकर्मणि प्रेरके सवितरि उद्यति उद्गच्छतिसति अद्यास्मिन्दिने यद्यदा ऋतं कल्याणभूतं गृहं दध धारयत दधातेर्लिटि मध्यमबहुवचनेरूपम् । यद्यदा हे विश्ववेदसः सर्वधनादेवाः निम्रुचि निम्रुचिर्गत्यर्थः सूर्यस्य निम्रोचने नितरां गमने सायमित्य- र्थः तस्मिन् धारयथ । यद्वा प्रबुधितस्य प्रबोधने प्रातः काले । यद्वा दिवः सूर्यतेजसा दीप्यमानस्याह्नो मध्यन्दिने मध्ये धनं मनवे धत्तेत्युत्तरत्रसंबंध: ॥ १९ ॥ .

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४