मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् २१

संहिता

यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ ।
वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥

पदपाठः

यत् । अ॒द्य । सूरे॑ । उत्ऽइ॑ते । यत् । म॒ध्यन्दि॑ने । आ॒ऽतुचि॑ ।
वा॒मम् । ध॒त्थ । मन॑वे । वि॒श्व॒ऽवे॒द॒सः॒ । जुह्वा॑नाय । प्रऽचे॑तसे ॥

सायणभाष्यम्

हे विश्ववेदसः सर्वतोव्याप्तधनाः हे देवाः यद्यदा अद्येदानीं सूरे सूर्ये उदिते सति यद्यदा मध्यन्दिने दिवसस्य मध्ये यद्वा आतुचि आतुचिर्गमनार्थः सू- र्यस्य आनिम्नोचने सायमित्यर्थः जुह्वानाय अग्नौ हवींषि जुह्वते अतएव प्रचेतसे प्रकृष्टज्ञानाय मनवे एतन्नामकाय ऋषये मह्यं वामं वननीयं धनं धत्थ धत्त तद्वृणीमहइत्युत्तरत्रसंबन्धः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४