मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् ३

संहिता

तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑त॒ः स शू॑शुवत् ।
विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥

पदपाठः

तस्य॑ । द्यु॒ऽमान् । अ॒स॒त् । रथः॑ । दे॒वऽजू॑तः । सः । शू॒शु॒व॒त् ।
विश्वा॑ । व॒न्वन् । अ॒मि॒त्रिया॑ ॥

सायणभाष्यम्

तस्य देवान्पूजयतोयजमानस्य देवजूतः देवैरिन्द्रादिभिः प्रेरितोद्युमान् दीप्तिमान् रथः स्यन्दनः देवानां हविःप्रदानरूपेण यज्ञेन असत् भवत्यागच्छ- ति । ततस्तेन रथेनामित्रिया अमित्रियान् शत्रुभिःकृतान्विश्वा सर्वान्बाधान् वन्वन् वनोतिर्हिंसाकर्मेतियास्कः हिंसन् सएवशूशुवत् पुत्रादिभिर्धनैश्च- वर्धते अत्र येन मे रथः बाधाभावश्चाभूदिति यागप्रशंसा । येन सम्यगिष्टदेवाः रथं दत्तवन्तइति यजमानप्रशंसा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८