अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे ।
इळा॑ धेनु॒मती॑ दुहे ॥
अस्य॑ । प्र॒जाऽव॑ती । गृ॒हे । अस॑श्चन्ती । दि॒वेऽदि॑वे ।
इळा॑ । धे॒नु॒ऽमती॑ । दु॒हे॒ ॥
प्रजावती पुत्रादियुक्तं असश्चन्ती सश्चतिर्गतिकर्मा अगमनशीलं तादृशं धेनुमती धेनुः पयसा सर्वान् धिनोति प्रीणयतीतिधेनुर्गौः तत्सहितं इळान्नं अस्य यष्टुर्गृहे दिवेदिवे अहरहः दुहे देवैर्दुत्द्यते । यद्वा इळेति गवां देवता सा स्थिरा धेनुमती गवांपतित्वाद्धेनुभिर्धेनुमती इळा गोदेवता देवैः प्रेरि- तासती अस्य यजमानस्य गृहे दोग्धा पुत्रादिकमस्मै ददातीत्यर्थः दुहेर्लटिलोपस्तआत्मनेपदेष्वितितलोपः अत्रेज्यास्तवः ॥ ४ ॥