मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् १२

संहिता

अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा ।
आ॒दि॒त्याना॑मने॒ह इत् ॥

पदपाठः

अ॒रम॑तिः । अ॒न॒र्वणः॑ । विश्वः॑ । दे॒वस्य॑ । मन॑सा ।
आ॒दि॒त्याना॑म् । अ॒ने॒हः । इत् ॥

सायणभाष्यम्

देवानांमध्ये पूषणमाह अनर्वणः अर्वागन्तव्यः शत्रुभिरगन्तव्यस्य अप्रत्यृतस्य देवस्य द्योतमानस्य पूष्णः विश्वः सर्वः स्तोतृजनः मनसा श्रद्धया भ- क्त्यैव अरमतिः अलंमतिः पर्याप्तस्तुतिर्भवति । तथाहि आदित्यानामदितेः पुत्राणां देवानां दानमनेहइत् अपापमेवखलु । तस्मादन्नादिप्राप्तये स्तो- तृजनः पूषणं स्तौतीत्यर्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०