मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् १४

संहिता

अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् ।
स॒प॒र्यन्त॑ः पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥

पदपाठः

अ॒ग्निम् । वः॒ । पू॒र्व्यम् । गि॒रा । दे॒वम् । ई॒ळे॒ । वसू॑नाम् ।
स॒प॒र्यन्तः॑ । पु॒रु॒ऽप्रि॒यम् । मि॒त्रम् । न । क्षे॒त्र॒ऽसाध॑सम् ॥

सायणभाष्यम्

हे देवाः वोयुष्माकं पूर्व्यं मुख्यं पुरतोगंतारंवा देवं स्वभासा दीप्यमानमग्निं वसूनां प्राप्तये गिरा स्तुतिलक्षणयावाचा ईळे अहं स्तौमि । किच्च सपर्य- न्तःयुष्मान् परिचरन्तोमनुष्याः पुरुप्रियं बहुविधप्रियं बहुनामभिमतदानेन प्रीणयितारंवा क्षेत्रसाधसं क्षियन्ति निवसन्ति कर्मकरणार्थमत्रेति क्षेत्रो- यज्ञः तस्य साधकम् । साधने दृष्टान्तः-मित्रंन यथा मित्रं सुहृत् अन्यस्यक्षेत्रं केदारादिकं साधयति तद्वत् यज्ञसाधकमग्निं वसुप्राप्तये स्तुवन्ति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०