अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ।
आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
अ॒र्वाक् । रथ॑म् । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ।
आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥
हे अश्विनौ वां स्वीयं रथमर्वागस्मदभिमुखं नियच्छतं सोम्यं सोममयं मध्वमृतच्च पिबतम् यज्ञमायातञ्च । सोमं प्रत्यागतमागच्छतञ्च । अवस्युः रक्ष- णकामोहं श्यावाश्वो वां हुवे ह्वयामि । दाशुषे हविंषि प्रयच्छते मह्यं रत्नानि धत्तं धारयतम् ॥ २२ ॥