मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३६, ऋक् १

संहिता

अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिष॒ः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥

पदपाठः

अ॒वि॒ता । अ॒सि॒ । सु॒न्व॒तः । वृ॒क्तऽब॑र्हिषः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥

सायणभाष्यम्

हे शतक्रतो बहुकर्मन्निंद्र सुन्वतः सोमाभिषवं कुर्वतो वृक्तबर्हिषस्तीर्णबर्हिषो यजमानस्य अविता रक्षितासि भवसि मदाय मदार्थं सोमं पिब । हे सत्पते सतां पते मरुत्वान् मरुत्वन् इन्द्र ते तुभ्यं यं सोमस्य भागमधारयन् सर्वे देवा अकल्पयन् । तथाच यजुर्ब्राह्मणं-सएतं माहेन्द्रमुद्धारमुदहरत् । वृत्रंहत्वान्यदेवतास्वधीति । तं भागं विश्वाः पृतनाः शत्रूणां सर्वाः सेनाः उरु बहु ज्रयोवेगंच संसेहानः सम्यगभिभवन्नप्सुजेत च सन् पिब ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८