मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३८, ऋक् २

संहिता

तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता ।
इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥

पदपाठः

तो॒शासा॑ । र॒थ॒ऽयावा॑ना । वृ॒त्र॒ऽहना॑ । अप॑राऽजिता ।
इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥

सायणभाष्यम्

हे इन्द्राग्नी तोशासा शत्रून् हिंसन्तौ रथयावाना रथेन गच्छन्तौ वृत्रहणा वृत्रस्य हन्तारौ अपराजिता केनाप्यपराजितौ तस्य तं मां बोधतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०