मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३८, ऋक् ३

संहिता

इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।
इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥

पदपाठः

इ॒दम् । वा॒म् । म॒दि॒रम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।
इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥

सायणभाष्यम्

हे इन्द्राग्नी वां युवां उद्दिश्य नरो यज्ञस्य नेतारोद्रिभिर्ग्रावभिः इदं प्रसिद्धं मदिरं मदकरं मधु सोमात्मकममृतं अधुक्षन् अपूरयन् । सिद्धमन्यत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०