मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३८, ऋक् ५

संहिता

इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथु॑ः ।
इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥

पदपाठः

इ॒मा । जु॒षे॒था॒म् । सव॑ना । येभिः॑ । ह॒व्यानि॑ । ऊ॒हथुः॑ ।
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥

सायणभाष्यम्

हे इन्द्राग्नी नरानेतारौ युवां येभिः यैः सवनैः हव्यान्यूहथुः वहथस्तानीमा इमानि सवना सवनानि जुषेथां सेवेथामागतञ्च ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०