मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३८, ऋक् ७

संहिता

प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू ।
इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

पदपाठः

प्रा॒त॒र्याव॑ऽभिः । आ । ग॒त॒म् । दे॒वेभिः॑ । जे॒न्या॒व॒सू॒ इति॑ ।
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे जेन्यावसू जेतव्यशत्रुधनाविन्द्राग्नी प्रातर्यावभिः देवेभिः दवैः सह सोमपीतये सोमस्य पानायागतमागच्छतम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१