मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३८, ऋक् ८

संहिता

श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् ।
इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

पदपाठः

श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् ।
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे इन्द्राग्नी युवां सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य श्यावाश्वस्य ममात्रीणामृत्विजां हवमाह्वानं सोमस्य पानाय शृणुतम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१