मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३८, ऋक् ९

संहिता

ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः ।
इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

पदपाठः

ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे इन्द्राग्नी वां युवां यथा मेधिराः प्राज्ञा अहुवन्त आहूतवन्तः एव एवमहमूतये रक्षणाय सोमस्य पीतये चाह्वे ह्वयामि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१