मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३८, ऋक् १०

संहिता

आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे ।
याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥

पदपाठः

आ । अ॒हम् । सर॑स्वतीऽवतोः । इ॒न्द्रा॒ग्न्योः । अवः॑ । वृ॒णे॒ ।
याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥

सायणभाष्यम्

याभ्यां ययोरिन्द्राग्न्योरर्थं गायत्रं साम ऋच्यते स्तूयते तयोः सरस्वतीवतोःस्तुतिमतोरिन्द्राग्न्योः संबंध्यवो रक्षणमहमावृणे ॥ १० ॥

अग्निमस्तोषीति दशर्चं नवमं सूक्तं काण्वस्य नाभाकस्यार्षं षडष्टका महापंक्तिश्छन्दः अग्निर्देवता । अनुक्रान्तञ्च-अग्निमस्तोषिनाभाकआग्नेयं महापांक्तंहीति । विनियोगोलैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१