मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् १

संहिता

इन्द्रा॑ग्नी यु॒वं सु न॒ः सह॑न्ता॒ दास॑थो र॒यिम् ।
येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । यु॒वम् । सु । नः॒ । सह॑न्ता । दास॑थः । र॒यिम् ।
येन॑ । दृ॒ळ्हा । स॒मत्ऽसु॑ । आ । वी॒ळु । चि॒त् । स॒हि॒षी॒महि॑ । अ॒ग्निः । वना॑ऽइव । वाते॑ । इत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे इन्द्राग्नी सहन्ता शत्रूनभिभवन्तौ युवं युवां नोस्मभ्यं रयिं धनं सुष्ठु दासथः दत्तम् । तं रयिं विशिनष्टि येन रयिणा समत्सु संग्रामे दृढाचित् दृढानि स्थिराण्यपि वीळु शत्रुबलानि अग्निर्वनेव यथाग्निर्वनानि वातइद्वातेनैवाभिभवति तथा सहिषीमहि अभिभवाम । सिद्धमन्यत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४