मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् ३

संहिता

ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः ।
ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

ता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः ।
ता । ऊं॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खि॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । न॒रा॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

ता तौ प्रसिद्धाविन्द्राग्नी भरणां मध्यं अधिक्षितः अधिनिवसतो हि । अथ प्रत्यक्षस्तुतिः हे नरा नेतारौ कवित्वना कवित्वेन कवी क्रान्तकर्माणौ पृच्छ्यमाना कविजनैः पृच्छ्यमानौ ताउ ता वेवयुवां सखीयते सखित्वमिच्छते यजमानाय धीतं तत्कृतं कर्म समश्नुतम् । सिद्धमन्यत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४