मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् ४

संहिता

अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा ।
ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

अ॒भि । अ॒र्च॒ । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्नी इति॑ । य॒जसा॑ । गि॒रा ।
ययोः॑ । विश्व॑म् । इ॒दम् । जग॑त् । इ॒यम् । द्यौः । पृ॒थि॒वी । म॒ही । उ॒पऽस्थे॑ । बि॒भृ॒तः । वसु॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे नाभाक नभाकवत् नभाकवन्ताविन्द्राग्नी यजसा यागेन गिरा स्तुत्या चाभ्यर्चाभिपूजय । ययोरिन्द्राग्न्योर्विश्वं सर्वमिदं जगत्तिष्ठति ययोश्चोपस्थे इयं द्यौर्मही महती पृथिवी च द्यावापृथिव्यावुभे वसु धनं बिभृतो धारयतः । सिद्धमन्यत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४