मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् ६

संहिता

अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय ।
व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

अपि॑ । वृ॒श्च॒ । पु॒रा॒ण॒ऽवत् । व्र॒ततेः॑ऽइव । गु॒ष्पि॒तम् । ओजः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ।
व॒यम् । तत् । अ॒स्य॒ । सम्ऽभृ॑तम् । वसु॑ । इन्द्रे॑ण । वि । भ॒जे॒म॒हि॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

अपिच हे इन्द्र पुराणवत्प्रत्नो यथा व्रततेरिव यथा लतायागुष्पितं निर्गतां शाखां वृश्चति तथा शत्रूणां वृश्च छेदय । तदेवाह दासस्य दासनामकस्य शत्रोः ओजोबलं दंभय नाशय । अथ परोक्षस्तुतिः वयं नाभाकाः अस्य दासस्य तत्प्रसिद्धं संभृतं वसु इन्द्रेण हेतुना विभजेमहि । सिद्धमन्यत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४