मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् ७

संहिता

यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा ।
अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

यत् । इ॒न्द्रा॒ग्नी इति॑ । जनाः॑ । इ॒मे । वि॒ऽह्वय॑न्ते । तना॑ । गि॒रा ।
अ॒स्माके॑भिः । नृऽभिः॑ । व॒यम् । स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

यत् ये इमे जनाः तना धनेन गिरा स्तुत्या च इन्द्राग्नी विह्वयन्ते विशेषेण ह्वयन्ति तेषु मध्ये वयं नाभाकाः पृतन्यतः पृतनामिच्छन्तः अस्माकेभि- रस्माकीनैर्नृभिर्मनुष्यैः ससह्याम शत्रूनभिभवेम । वनुष्यतः स्तुतिमिच्छन्तः शत्रून् वनुयामच । सिद्धमन्यत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५