मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् ८

संहिता

या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभि॑ः ।
इ॒न्द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यन्ति॒ सिन्ध॑वो॒ यान्त्सीं॑ ब॒न्धादमु॑ञ्चतां॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

या । नु । श्वे॒तौ । अ॒वः । दि॒वः । उ॒त्ऽचरा॑तः । उप॑ । द्युऽभिः॑ ।
इ॒न्द्रा॒ग्न्योः । अनु॑ । व्र॒तम् । उहा॑नाः । य॒न्ति॒ । सिन्ध॑वः । यान् । सी॒म् । ब॒न्धात् । अमु॑ञ्चताम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

यानु यावेवेन्द्राग्नी श्वेतौ श्वेतवर्णौ सत्वगुणोपेतावित्यर्थः अवोधस्तात् द्युभिर्दीप्तिभिर्दिवउपोच्चरातः उच्चरतस्तयोरेवेन्द्राग्न्योः उहानाः हविर्वहन्तो यजमानाः व्रतं कर्मानुयन्ति । अपि सीमिमाविन्द्राग्नी यान् प्रसिद्धान् सिन्धवः सिन्धून् बन्धात् बन्धनादमुञ्चताम् । सिद्धमन्यत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५