मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् ९

संहिता

पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तय॒ः सूनो॑ हि॒न्वस्य॑ हरिवः ।
वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

पू॒र्वीः । ते॒ । इ॒न्द्र॒ । उप॑ऽमातयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः । सूनो॒ इति॑ । हि॒न्वस्य॑ । ह॒रि॒ऽवः॒ ।
वस्वः॑ । वी॒रस्य॑ । आ॒ऽपृचः॑ । याः । नु । साध॑न्त । नः॒ । धियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे हरिवो वज्रिन् सूनो प्रेरयितरिन्द्र हिन्वस्य प्रीणयितुः वस्वोदीपकस्य वीरस्यापृचोधनान्युपयच्छतस्ते तव ता उपमातयउपमानानि पूर्वीर्बहूनि उतापिच प्रशस्तयः पूर्वीः याः नोस्माकं धियः प्रज्ञां नु क्षिप्रं साधन्तासाधयन् । सिद्धमन्यत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५