मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् ११

संहिता

तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् ।
उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजै॒ः स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

तम् । शि॒शी॒त॒ । सु॒ऽअ॒ध्व॒रम् । स॒त्यम् । सत्वा॑नम् । ऋ॒त्विय॑म् ।
उ॒तो इति॑ । नु । चि॒त् । यः । ओह॑ते । आ॒ण्डा । शुष्ण॑स्य । भेद॑ति । अजैः॑ । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे स्तोतारः स्वध्वरं सुयज्ञं सत्यमविनाशं सत्वानं संभक्तारमृत्वियमृतौयष्टव्यं तमिन्द्रं शिशीत स्तुतिभिः संस्कुरुत । अथ प्रत्यक्षस्तुतिः उतोनुचित् अपिच यइन्द्रः ओहते यज्ञं प्रतिगच्छति शुष्णस्याण्डानि अण्डजातानिच भेदति भिनत्ति सत्वं स्वर्वतीर्दिव्यान्यपः सलिलान्यजैरजैषीः । सिद्धमन्यत् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५