मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४०, ऋक् १२

संहिता

ए॒वेन्द्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मन्धातृ॒वद॑ङ्गिर॒स्वद॑वाचि ।
त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

पदपाठः

ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । पि॒तृ॒ऽवत् । नवी॑यः । म॒न्धा॒तृ॒ऽवत् । अ॒ङ्गि॒र॒स्वत् । अ॒वा॒चि॒ ।
त्रि॒ऽधातु॑ना । शर्म॑णा । पा॒त॒म् । अ॒स्मान् । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

सायणभाष्यम्

एवैवं याभ्यामिन्द्राग्निभ्यां पितृवन्नभाकवत् यौवनाश्वमन्धातृवत् चांगिरस्वदंगिरोवच्च नवीयोनवतरमवाचि नाभाकेन मया पाठिताविन्द्राग्नी त्रि- धातुना त्रिपर्वणा शर्मणा गृहेण नोस्मान्नाभाकान् पातं रक्षतम् । वयं रयीणां धनानां पतयः स्वामिनः स्याम भवेम ॥ १२ ॥

अस्माऊष्विति दशर्चमेकादशं सूक्तं अत्रेयमनुक्रमणिका-अस्माऊषुदशवारुणंत्विति । नाभाकऋषिः अनुवृत्तत्वात् । महापांक्तंहीत्युक्तत्वादिदमपि महापांक्तम् । इदमादिकेद्वे सूक्ते वरुणदेवत्ये । विनियोगोलैंगिकः । चातुर्विंशिकेहनि माध्यन्दिनसवने मैत्रावरुणशस्त्रे आरंभणीयायाऊर्ध्वं सक्षपइत्य- यं नाभाकतृचः । सूत्रितञ्च-सक्षपःपरिषस्वजइति मैत्रावरुणइति यःककुभइत्येतत्प्रभृतिकोवा नाभाकतृचः सूत्रितञ्च-यः ककुभोनिधारयइतिचेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५