मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् १

संहिता

आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् ।
येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥

पदपाठः

आ । घ॒ । ये । अ॒ग्निम् । इ॒न्ध॒ते । स्तृ॒णन्ति॑ । ब॒र्हिः । आ॒नु॒षक् ।
येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥

सायणभाष्यम्

ये ऋषयः आघ आभिमुख्येन खल्वग्निमिन्धते दीपयन्ति येषांच युवा नित्यतरुणइन्द्रः सखा भवति तेषां आनुषगानुपूर्व्येण बर्हिः स्तृणन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२