मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् २९

संहिता

अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनम् ।
अश्वा॑ना॒मिन्न वृष्णा॑म् ॥

पदपाठः

अध॑ । प्रि॒यम् । इ॒षि॒राय॑ । ष॒ष्टिम् । स॒हस्रा॑ । अ॒स॒न॒म् ।
अश्वा॑नाम् । इत् । न । वृष्णा॑म् ॥

सायणभाष्यम्

अधाधुना इषिराय धनादिप्रेरयित्रे राज्ञे प्रियं श्रद्धेयं अश्वानामिन्न अश्वानामिव वृष्णां सेक्तृणां गवां सहस्रा सहस्राणां षष्टिं षष्टिसहस्रसंख्याकं प्रिय- भूतं असनं अभजम् ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः