मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ३२

संहिता

श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे ।
ते ते॑ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद॑न्ति दे॒वगो॑पाः ॥

पदपाठः

श॒तम् । दा॒से । ब॒ल्बू॒थे । विप्रः॑ । तरु॑क्षे । आ । द॒दे॒ ।
ते । ते॒ । वा॒यो॒ इति॑ । इ॒मे । जनाः॑ । मद॑न्ति । इन्द्र॑ऽगोपाः । मद॑न्ति । दे॒वऽगो॑पाः ॥

सायणभाष्यम्

अयं विप्रोमेधावी वशो जनोहं बल्बूथे एतन्नामके दासे तरुक्षे गवाश्वादीनां तारके गवाद्यधिकृते राज्ञास्माकं प्रदिष्टधनदातरि आददे । किं दानं गवा- श्वादीनां शतं शतशब्दोपरिमितवचनः हे वायो ते तव स्वभूताः ते स्तोतारः इमे जनावयमित्यर्थः आत्मनएव परोक्षत्वेन वादः त्वयानुगृहीतत्वादि- न्द्रगोपा इन्द्रो गोपायिता येषां ते तथोक्ताःइन्द्रेण रक्षिता मदन्ति तथा देवगोपा मदन्ति इन्द्रं देवांश्च राज्ञोलब्धेन धनेन यजन्तो मदन्तीत्यर्थः ॥ ३२ ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः