मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् ८

संहिता

यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु ।
यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

यु॒ष्मे इति॑ । दे॒वाः॒ । अपि॑ । स्म॒सि॒ । युध्य॑न्तःऽइव । वर्म॑ऽसु ।
यू॒यम् । म॒हः । नः॒ । एन॑सः । यू॒यम् । अर्भा॑त् । उ॒रु॒ष्य॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

हे देवाः आदित्या युष्मे युष्मासु वयं अपिष्मसि अपि भवेम युष्माभिरपिहिताःस्मेत्यर्थः । तत्र दृष्टान्तः-युध्यन्तः इव शूरा वर्मसु कवचेषु यथा भवन्ति तद्वत् यूयं नोस्मान्महोमहतः एनसः पापात् उरुष्यत रक्षत । तथा यूयं अस्मानर्भादल्पादप्येनस उरुष्यत ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः