मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् १८

संहिता

अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।
उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

अजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् ।
उषः॑ । यस्मा॑त् । दुः॒ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

वयं त्रिताः अद्याजैष्म जयेम असनामच संभजेमच सुष्वप्न्यं सुखंवा अनागसोपापाअभूम भवेम । हे उषः यस्माद्दुष्वप्न्यादभैष्म भीताः स्म तत्पा- पं अपोच्छतु अपगच्छतु ॥ १८ ॥

स्वादोरभक्षीति पञ्चदशर्चं षष्ठंसीक्तं काण्वस्य प्रगाथस्यार्षं सोमदेवताकं त्रैष्टुभं पञ्चमीजगती । तथाचानुक्रान्तम्-स्वादोःपञ्चोना प्रगाथः सौम्यं त्रैष्टुभं पञ्चमीजगतीति । सीक्तविनियोगोलैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०